|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.34. अध्यायः 034
Mahabharata - Virata Parva - Chapter Topics
विराटसुशर्मसैन्ययौर्युद्धम् ॥ 1 ॥ युधिष्ठिरादिनिहतानां परिसह्ख्यानम् ॥ 2 ॥ विराटसुशर्मणोर्युद्धम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-34-0x(3133)(29778)
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः।
त्रिगर्तानस्पृशन्मात्स्याः मूर्येऽस्तंगमिते सति ॥ 1 ॥ 4-34-1(29779)
ते त्रिगर्ताश्च मात्स्याश्च व्यूढानीकाः प्रहारिणः।
अन्योन्यमभिवर्तन्ते गोषु गृद्धा महाबलाः ॥ 2 ॥ 4-34-2(29780)
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः।
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ॥ 3 ॥ 4-34-3(29781)
तेषां समागमो घोरस्तुमुलो रोमहर्षणः।
घ्नतां परस्परं राजन्यमराष्ट्रविवर्धनः ॥ 4 ॥ 4-34-4(29782)
देवासुरसमो राजन्नासीत्सूर्येऽबलम्बति ।
पदातिरथनागेन्द्रहयारोहबलौघवान् ॥ 5 ॥ 4-34-5(29783)
अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम् ।
उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ॥ 6 ॥ 4-34-6(29784)
पक्षिणश्चापतन्भूमौ सैन्येन रजसा वृताः ।
इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत ॥ 7 ॥ 4-34-7(29785)
खद्योतैरिव संयुक्तमन्तरिक्षमजायत॥ 8 ॥ 4-34-8(29786)
रुक्मपृष्ठानि चापानि विचेरुर्विद्युतो यथा ।
नर्दतां लोकवीराणां सव्यं दक्षिणमस्यताम् ॥ 9 ॥ 4-34-9(29787)
रथा रथैः समाजग्मुः पत्तयश्च पदातिभिः ।
सादिनः सादिभिर्जग्मुर्गजैश्चापि महागजाः ॥ 10 ॥ 4-34-10(29788)
असिभिः पट्टसैश्चापि शक्तिभिस्तोमरैरपि ।
संरब्धाः समरे योधा निजघ्नुरितरेतरम् ॥ 11 ॥ 4-34-11(29789)
निघ्नन्तः समरेऽन्योन्यं हृष्टाः परिघपाणयः ।
न शेकुरतिसंक्रुद्धाः शूराः कर्तुं पराङ्भुखम् ॥ 12 ॥ 4-34-12(29790)
रक्ताधरोष्ठं सुनसं क्लृप्तश्मश्रु स्वलंकृतम्।
अदृश्यत शिरश्छिन्नं रजोविध्वस्तकुण्डलम् ॥ 13 ॥ 4-34-13(29791)
दृश्यन्ते तत्र गात्राणि वीरैश्छिन्नानि सर्वशः ।
सालस्कन्धनिकाशानि क्षत्रियाणा महामृधे ॥ 14 ॥ 4-34-14(29792)
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः।
आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ॥ 15 ॥ 4-34-15(29793)
यथा वा वाससी श्लक्ष्णे महारजतरञ्जिते।
बिभ्रती युवती श्यामा तद्वद्भाति वसुन्धरा ॥ 16 ॥ 4-34-16(29794)
उपाशाम्यद्रजो भौमं रुधिरेण प्रवर्षता।
कश्मलं प्राविशद्धोरं निर्मर्यादमवर्तत ॥ 17 ॥ 4-34-17(29795)
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तदा।
व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः ॥ 18 ॥ 4-34-18(29796)
आत्मानं श्येनवत्कृत्वा तुण्डमासीद्युधिष्ठिरः।
पक्षौं यमौ च भवतः पुच्छमासीद्वृकोदरः ॥ 19 ॥ 4-34-19(29797)
सहस्रं न्यहनत्तत्र कुन्तीपुत्रो युधिष्ठिरः।
भीमसेनस्तु संक्रुद्धः सर्वशस्त्रभृतांवरः ।
द्विसहस्रं रथान्वीरः परलोकं प्रवेशयत् ॥ 20 ॥ 4-34-20(29798)
नकुलस्त्रिशतं जघ्ने सहदेवश्चतुःशतम् ।
शतानीकः शतं जघ्ने मदिराश्वश्चतुःशतम् ॥ 21 ॥ 4-34-21(29799)
प्रहृष्टां महतीं सेनां त्रिगर्तानां महाबलौ ।
आर्च्छतां बहुसंरब्धौ केशाकेशि रथारथि ॥ 22 ॥ 4-34-22(29800)
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ महाचमूम्।
जग्मतुः सूर्यदत्तश्च वललश्चापि पृष्ठतः ॥ 23 ॥ 4-34-23(29801)
शङ्खो विराटपुत्रश्च महेष्वासो महाबलः।
विनिघ्नन्समरे शूरान्प्रविवेश महाचमूम् ॥ 24 ॥ 4-34-24(29802)
विराटस्तत्र संग्रामे हत्वा पञ्चशतं रथान्।
कुञ्जराणां शतं चैव सहस्रं वाजिनां तथा ॥ 25 ॥ 4-34-25(29803)
चरन्स विविधान्मार्गान्रथेन रथिनांवरः।
त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ॥ 26 ॥ 4-34-26(29804)
तौ तु प्राहरतां तत्र महेष्वासौ महाबलौ ।
अन्योन्यमभिनिघ्नन्तौ गोषु गोवृषभाविव ॥ 27 ॥ 4-34-27(29805)
राजसिंहौ सुसंरब्धौ विरेजतुरमर्षणौ।
कृतास्रौ निशितैर्बाणैरसिशक्तिपरश्वथैः ॥ 28 ॥ 4-34-28(29806)
ततो रथाभ्यां रथिनौ व्यतीयातां समन्ततः ।
शरान्ससृजतुः शीघ्रं तोयधारा घनाविव ॥ 29 ॥ 4-34-29(29807)
अन्योन्यमभिसंरब्धौ दन्ताभ्यामिव कुञ्जरौ।
कृतास्त्रौ निशितैर्बाणैर्दारयामासतू रणे ॥ 30 ॥ 4-34-30(29808)
मात्स्यो राजा सुशर्माणं विव्याध निशितैः शरैः ।
पञ्चभिः पञ्चभिर्बाणैर्विव्याध चतुरो हयान् ॥ 31 ॥ 4-34-31(29809)
द्वाभ्यां सूतं च विव्याध केतुं च त्रिभिराशुगैः ।
तथैव मात्स्यराजं तु सुशर्मा युद्धदुर्मदः ।
पञ्चाशद्भिः शितैर्बाणैविव्याध परमास्त्रवित् ॥ 32 ॥ 4-34-32(29810)
तयोर्बलानि राजेन्द्र समस्तानि महारणे।
नाजानन्त तदाऽन्योन्यं प्रदोषे रजसा वृते ॥ 33 ॥ ॥ 4-34-33(29811)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|